Wednesday, February 11, 2009

एकं सम्भाषणम्

अद्य त्रिवेणी गणस्य Level 2 वर्गे एतत् सम्भाषणं प्राचलत् । पठन्तु आनन्दम् अनुभवन्तु च ।

हरिः - किं देवि, पञ्च-अधिक-सप्तवादनम् (7:05) अभवत् । एकः अपि न आगतवान् ।

सरस्वतीदेवी - अहं कथं जानामि? भवतः कक्ष्या अस्ति ।

हरिः - अस्तु । प्रतीक्षां कुर्वः तर्हि । प्रातः अहम् e-पत्रे उक्तवान् यत् अद्य किञ्चित् "interesting" कुर्मः कक्ष्यायाम् इति । तद्विषये अधिकं चिन्तनं करोमि ।

(दशनिमिषानन्तरम्)

हरिः - मातः । पूर्वम् अखिलाभगिनी एकं ’चन्दमामा’ इति पुस्तकं दत्तवाती मह्यम् । तत् अहं पठामि । सम्यक् वा?

सरस्वती - उत्तमम् । मह्यम् अपि चन्दमामा बहु रोचते । संस्कृते चन्दमामां पठितुं सुदीर्घम् इच्छा असीत् मम । अद्य सा इच्छा सम्पन्ना भवति । उत्तमम् ! बहु उत्तमम् !

हरिः - एवं वा? भाषाणां देवी अस्ति भवती । भवत्यै पठनं मम् सौभागः अस्ति ! श्रुणोतु । प्रथमा कथा अस्ति कस्यचित् मनोहरस्य विषये । सः कुरूपी बालकः । सः कथं जीवने अग्रे गच्छति इति पश्यावः ।

[कथा समाप्ता]

हरिः - अम्बा । कथा भवत्यै रोचते इति आशां करोमि । किन्तु इदानीम् समयः प्रायः सार्धसप्तवादनम् (7:30) । किमर्थम् एकोऽपि न आगतवान् इति न अवगच्छामि । अहम् अद्यतन अधिकव्यायामात् श्रान्तः अस्मि । गृहं गच्छामि वा ?

सरस्वती - तत् कथम् ? अहम् अग्रे किम् अस्ति इति ज्ञातुम् इच्छामि ।

हरिः - अस्तु मातः । भवती मम BOSS अस्ति ! भवती यथा वदति तथैव करोमि । भारतदेशे कीदृशानि पर्वतरेलयानानि (mountain railways) सन्ति इत्यस्मिन् विषये किमपि अस्ति । तत् पठावः ।

[तत् अपि समाप्तम्]

सरस्वती - बहु रोचनीयं खलु ! इतोऽपि यदा भवान् भारतं गच्छति तदा निश्चयेन तेन रेलयानेन डार्जीलिङ्ग् (Darjeeling) गच्छतु । अग्रे किम् आस्ति ?

हरिः - अग्रे विक्रमार्क-वेताळयोः कथा अस्ति । किन्तु अम्बा, यदि अहं ज्ञातवान् स्याम् जनाः न आगच्छन्ति कक्ष्या न भवति च इति तर्हि अहं मम सहपाठिभिः सह भोजनार्थं गतवान् स्याम् । अद्य वर्गः अस्ति अतः न आगच्छामि इति उक्तवान् तान् । अत्र वर्गः अपि न प्रचलति तत्र भोजनम् अपि अहं त्यक्तवान् । अहो बत !

सरस्वती - चिन्तां किमर्थं करोति वत्स ? कालक्षेपार्थम् अहम् अत्र अस्मि खलु । निराशी मा भवतु । विक्रमस्य कथां पठतु ।

हरिः - आम् । सत्यमेव किल ! अहमेव मूर्खः अस्मि यतः भवतीं विस्मृतवान् । अस्तु । कथा आरब्धा । सदा इव विक्रमः वेताळं स्कन्धयोः स्तापयित्वा निर्गच्छति । वेताळः कथां श्रावयति ।

[किञ्चित् कालं जातम् । कथा अपि समाप्ता जाता]

हरिः - उत्तमा कथा आसीत् खलु ? अयि पश्यतु । अष्टवदनम् (8:00) अभवत् । वर्गस्य सामाप्तिः अष्टवादने भवति । आवाम् अपि गच्छावः वा ?

सरस्वती - आम् । गच्छावः । भवान् अद्य मह्यं कथाः श्रावितवन् अतः भवते वरं दास्यामि । एवमेव वर्गान् चालयतु तर्हि पञ्चवर्षानन्तरं भवतः भाषावर्गेषु न्यूनातिन्यूनं पञ्च छात्राः भवेयुः सम्यग्तया पठेयुः च ।

हरिः - धन्योऽस्मि देवि धन्योऽस्मि । सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ! निर्गच्छावः । बहिः तु वृष्टिः अस्ति । लोकयानं लभ्यते इति आशये ।

सरस्वतीदेवी - चिन्ता मास्तु । यदा स्थानकं प्राप्नोसि तदा अचिरात् एव ’६१ च’ (61 C) इति लोकयानम् आगच्छेत् । शुभरात्रिः तर्हि ।

हरिः - शुभरात्रिः मातः । सहस्राः धन्यवादाः ।

किञ्चित् कालानन्तरं हरिः मनसि चिन्तयति - "अहो मम सौभाग्यं दृश्यताम् । यथा देवी उक्तवती तथैव ’६१ च्’ (61 C) लोकयानम् आगतम् ! :-) :-) :-)

1 comment:

stixnixpix said...

samyak asti, hari! bhavan maam api prerana dattavAn, kinchit samskrutam paThitum!