Thursday, November 4, 2010

Sunday, September 27, 2009

विजयदशम्याः शुभाषयाः

सर्वेभ्यो नमः ।

नवरात्रस्य समाप्तस्य कालः अस्ति । अस्य महोत्सवस्य अन्तिमदिनं विजयदशमी इति वयम् सम्यक् जानीमः । अस्मिन् पर्वदिने सर्वेभ्यो हृदयपूर्वकाः शुभाषयाः । अशुभस्य पराजयं भवतु विजयं शुभस्य भवतु इति प्रार्थना ।

भवदीयः
हरिः

Monday, March 2, 2009

अद्यतन गृहपाठः

mama nAma hariH |

मम नाम हरिः ।

Helen:

1) mama nAma helen |

2) aham vadAmi samskRutam

3) bhavAn pRucChati

4) aham paThAmi etat pustakam

5) bhavAn pibati

udayaH

1) suhAsaH adhya samskRuta kakshAm na AgacChati |

2) aham shukravAsare vedAntam paThAmi |

3) aham brahmA asmi | bhavAn kaH ?

4) sarasvatI devI asti |

5) mama jananyAH putraH aham asmi |

Monday, February 23, 2009

L1 gRuha pAThaH गृह पाठः

अद्य कक्ष्यायां गृहपाठं प्रदर्शितवन्तः । पश्यन्तु ।

सुहासः


१) हरिः संस्कृतं जानाति ।

२) सुहासः मद्यं न पिबति ।

३) अहं गृहपाठं लिखामि ।

४) अहं बेङ्गलूरुं स्मरामि ।

५) अहं विद्यालयं गच्छामि ।

अनघा

१) अद्य शिवरात्रिः अस्ति ।

२) शिवस्य त्रीणि नेत्राणि सन्ति ।

३) शिवः ताण्डवं करोति ।

४) शिवस्य पुत्रः गणेशः ।

५) शिवस्य गृहं हिमालयाः ।

६) गणेशस्य जनन्याः नाम किम् ?
सुहासः वदति "गणेशस्य जनन्याः नाम पार्वती" ।

अखिला

१) भवान् कुत्र वसति ?
हरिः वदति "अहं स्क्विरेल् हिल् प्रदेशे वसामि" ।

२) देवः एकत्र एव नास्ति । सर्वत्र अस्ति ।

३) मम पुत्र्याः नाम सौम्या ।

४) सा नर्तकी अस्ति ।

५) अहं प्रतिदिनं सार्धाष्टवादने योगासनं करोमि ।

Thursday, February 19, 2009

AtmanepadI / आत्मनेपदी

ह्यः कक्ष्यायाम् "आत्मनेपदी धातुः" इति पठितवन्तः ।

सामान्यतया यानि क्रियापदानि वयं जानीमः तेषु ’ति’ इति अन्ते भवति । यथा ’गच्छति’ ’पठति’ इत्यादि । एतानि ’परस्मैपदी धातु’-पदानि इति वदन्ति ।

अन्यानि पदानि अपि सन्ति येषाम् अन्ते ’ते’ इति भवति । यथा ’वन्दते’ ’वर्धते’ ’सेवते’ इत्यादीनि । एतानि ’आत्मनेपदी धातु’-पदानि इति वदन्ति । एतेषां लट्लकाररूपाणि पश्यन्तु -


वन्दते वन्देते वन्दन्ते
वन्दसे वन्देथे वन्दध्वे
वन्दे वन्दावहे वन्दामहे

आत्मनेपदिधातूनाम् अन्यानि उदाहरणानि सन्ति - लभते, वर्धते, वर्तते, बाधते, मोदते, सहते, सेवते, याचते, मन्यते, हरते, युध्यते, जायते, इत्यादीनि ।

उदाहरणार्थं कानिचन वाक्यानि - अहं जगद्गुरुं कृष्णं वन्दे । संस्कृतं वर्धते । वयं मिलित्वा संस्कृतं वर्धावहे । गीतायां श्लोकः अस्ति "यः एनं वेत्ति हन्तारं यः च एनं मन्यते हतम्" इत्यादि ।

गृहपाठः

अग्रीम कक्ष्यार्थम् एकं गृहपाठं कुर्मः । किमपि एकं पदं (उपरि ये सन्ति) स्वीकृत्य तस्य लट्लकाररूपाणि लिखन्तु । तस्य लृट्, लोट्, विधिर्लिङ् लकारान् पठन्तु च । लेखितुं न आवश्यकम् ।