Wednesday, January 28, 2009

Youth Without Youth

नमस्सर्वेभ्य: ।
अद्यैव ज्ञातवती यत् गत संवत्सरस्य चलनचित्रे, "Youth Without Youth" मध्ये संस्कृतभाषाया: उपयोगं किञ्चित् अस्ति इति । एतस्मिन् चलनचित्रं विषये अत्र लिखितम् अस्ति
http://www.imdb.com/title/tt0481797/ । यदि को~पि चलनचित्रं द्रक्षयति, तर्हि कृपया लिखतु कथम् अस्ति इति ।

भवदीया, ज्योत्स्ना कलवार्

Tuesday, January 27, 2009

Some common greetings

Since there are a few new folks, here are some of the common greetings that will be useful:
  • namaskAraH / namo namaH (नमस्कारः / नमो नमः) - Hello / Salutations
  • suprabhAram (सुप्रभातम्) - Good morning
  • katham asti? (कथम् अस्ति?) - How are you?
  • sarvaM kushalaM vA? (सर्वं कुशलं वा?) - Is everything alright?
  • dhanyavAdaH (धन्यवादः) - Thanks
  • shubharAtriH (शुभरात्रिः) - Good night
  • abhinandanAni (अभिनन्दनानि) - Wishes / Congrats
  • janmadinasya shubhAshayAH (जन्मदिनस्य शुभाशयाः) - Happy birthday
Please add more.

Sunday, January 11, 2009

नवनर्षं नवहर्षं ददातु

सर्वेभ्यो नववर्षे नमो नमः ।

प्रार्थनां करोमि यत् सर्वेभ्यः नववर्षे शुभं भवतु । इच्छा अपि अस्ति सर्वे अस्मिन् वर्षे संस्कृतेन सम्भाषणं कर्तुं सुनिश्चिताः सन्ति इति ! प्रति दिनं दशनिमेशकालं संस्कृतं पठामः इति वयं सर्वे नववर्षनिर्णयं (new year resolution) स्वीकुर्मः चेत् बहु सम्यक् भवति । जयतु संस्कृतम् ।

सप्रेम्,
हरिः

Tuesday, November 11, 2008

Read the latest Vishvavani

Read the latest vishvavANii - a webzine published by Campus Samskritam Network:

http://speaksanskrit.org/vishvavani/vishvavANI_vol2_no2.pdf

As usual, there are many interesting readings in simple sanskrit. Most of these are written by people like you and me, who have started learning spoken sankrit only very recently.

Monday, October 27, 2008

दीपावलि-पर्वदिनस्य शुभाषयाः

सर्वेभ्यो नमो नमः

अद्य श्वः च भारते दीपावली आचर्यते । सर्वेभ्यो अस्य पर्वदिनस्य शुभाषयाः । यद्यपि भारते इव अत्र अधिकं कोलाहलं कर्तुं न शक्नूमः तथापि बाल्यकालस्य दीपावलीः स्मृत्वा अत्र अपि आनन्दम् अनुभ्वामः इति मम इछ्छा । गृहेषु यावन् शक्यते तावन् दीपान् ज्वालयामः मधुरानि खादामः बन्धुमित्रैः सह अभिनन्दनानि च प्रसारयामः ।

नरकचतुर्दशी नाम आश्वायुजमासस्य चतुर्दशमे दिने च अमावास्ये दीपावली भवति । विश्वासः अस्ति यत् अस्मिन् दिने श्रीरामः सीतालक्ष्मणाभ्यां सह अयोध्यानगरीं प्रत्यागतवान् इति । दानवस्य नरकासुरस्य मृत्युः अपि श्रीकृष्णस्य पत्न्या सत्यभामया (भूदेव्याः अवताररूपिणि) अस्मिन् दिने एव कृतः इति अपि उच्यते । लक्ष्मीदेवी अपि विशेषतया सम्पूज्यते ।

शुभं भवतु ।

Wednesday, September 24, 2008

कार्याणि कथं सिध्यन्ति?

नमस्ते,
मम् प्रथमं लेखनम्| कृपया टिप्पणीः ददातु|

कार्यं सिध्यति| कार्याणि सिद्धयन्ति|
कार्याणि कथं सिद्धयन्ति? कार्याणि उद्यमेन (उद्यम इत्युक्ते श्रमः) सिद्धयन्ति|
कार्याणि कथं न सिद्धयन्ति? कार्याणि केवलं मनोरथैः (मनोरथः इत्युक्ते इच्छा अथवा संकल्प) न सिद्धयन्ति|
चिन्तयतु सिम्हः सुप्तः अस्ति| तस्य मुखं उध्घाटितम् अस्ति| मृगः तस्य मुखे स्वेच्छाय प्रवेशम् करिष्यति वा? न प्रविश्यति| तर्हि अनेके मृगाः न प्रविश्यन्ति खलु|
सिंहेन अपि अन्नं प्रप्तुम कष्टं करानियम भवति |

-हर्षलः
सम्पादनं हरिः
उत्तर्लिपि (PS): अत्र एतस्य सम्बन्धि एका विनोदिका अस्ति |

Thursday, September 18, 2008

shlokeShu vibhaktayaH

नमो नमः ।

वयं बहून् श्लोकान् सुभाषितानि च जानीमः । तेषु यदि किञ्चित् ध्यानं दद्मः तर्हि विभक्तिपठनं कर्तुं शक्नुमः । उदाहरणार्थम् -

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

अत्र "वन्दे" इति क्रिया । तर्हि प्रश्नः भवति "कं वन्दे"? उत्तरं द्वितीया विभक्त्यां भवितुम् आवश्यकं किल ।

इदानीं "कं वन्दे" इत्यस्य प्रश्नस्य उत्तराणि पश्यामः ।

१) कृष्णं वन्दे ।
२) कृष्णः कः? वसुदेवसुतः । अतः "वसुदेवसुतं कृष्णं वन्दे" ।
३) कृष्णः देवः अपि । अतः "वसुदेवसुतं देवं कृष्णं वन्दे" ।
४) कृष्णः कंसचाणूरमर्दनः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं कृष्णं वन्दे" ।
५) कृष्णः देवकीपरमानन्दः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे" ।
६) कृष्णः जगतः गुरुः इत्युक्ते जगद्गुरुः । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् " ।

अस्ति खलु सरलम् ?

एवम् अन्यान् श्लोकान् स्वीकृत्य कोऽपि लिखतु ।

धन्यवादः ।

हरिः ।