नमस्ते
मम वचनानुसारं अद्य एकाम् कथाम् श्रावयामि | निश्चयेन भवन्तः सर्वे कदाचित् मनसि चिन्तयेयुः यत् लोके अस्माकं तात्विक लक्ष्यः कः इति, न खलु ? श्रेयः, धनं, सौकर्यं, स्वस्थता, पारिवारिक कौशल्यं इत्यादि तु सन्ति एव किन्तु इतोऽपि मनुष्यः मानसिक शान्तिः अपि यतते | पूर्वैः साधुभिः बहुना ध्यानेन च तपसा ज्ञातं यत् "आत्मज्ञानं" एकमेव उपायं जन्ममरणचक्रतः मोक्षार्थं | वेदान्तस्य सारं भवति एतत् | बहवः मार्गाः सन्ति आत्मज्ञानार्थं यस्मिन् प्रसिद्धेषु एकः अस्ति भक्तिमार्गः | परब्रह्मनेव गतिः लक्ष्यः च इति मत्वा तस्य आराधने संकीर्तने जीवनं यापयन्ति भक्ताः | किन्तु एतत् कलियुगम्; द्वन्द्वमोहेन (राग-द्वेष, जय-विजय, लाभ-अलाभ ...) लक्ष्यः अस्पष्टः जातः | एतस्मिन् विषये एव अत्र पश्यामः श्रीमद्भागवतपुराणात् एकाम् कथाम् यत् स्वयं नारदमुनिना उक्तं राज्ञे प्राचीनबर्हिषदे | चतुर्थे स्कन्धे पञ्चविंशतितमे अध्याये एषा कथा दृश्यते | बहु रोचते मह्यं एषा कथा अतः भवद्भ्यः अपि श्रावयामि |
एकदा राजा प्राचीनबर्हिषत् यज्ञकर्मसु बहु आसक्तिः प्रकटयति स्म | तदा गच्छता नारदमुनिना राजानम् उक्तम् - "भोः राजन् ! ईदृशैः यज्ञकर्मभिः किं इच्छसि त्वं? कर्मबन्धादेव विमोचनं यतते न वा? किन्तु यज्ञकर्मणः फलं यदि काङ्क्षसे पुनः तैः कर्मभिरेव बध्यसे एव |" एतत् श्रुत्वा राजा तं अवदत् "आम्, सत्यं प्रभो | अतः कृपया भवान् एव सुनीथे पथि माम् नयतु, ब्रूहि मे विमलम् ज्ञानं येन मुच्येय कर्मभिः |" नारदमुनिः प्रत्यवदत् "तथास्तु प्रजापते ! कर्मबन्धविमोचनाय पुरञ्जनस्य चरितं इति एकां पुरातनाम् इतिहासकथां कथयिष्ये | शृणु तत् |"
(अस्माभिः अपि सावधानतया श्रोतव्या ! त्रिषु भागेषु कथायाः विभजनं कृतं मया |)
नारदः वदति -
आसीत्पुरञ्जनो नाम राजाराजन्बृहच्छ्रवाः | तस्याविज्ञातनामासीत्सखाविज्ञातचेष्टितः ||
पुरञ्जनः नाम्ना एकः राजा आसीत् | तस्य सखा एकः आसीत् अविज्ञाता इति नाम्ना | मित्रेण सह राजा पुरञ्जनः स्वस्य वासार्थं स्थलं अन्वेषयन् गच्छति स्म | बहु अन्वेषनानन्तरमपि किमपि न अलभ्यत तेन | अन्ते हिमालयस्य दक्षिणदिग्भागे एकं नगरं अपश्यत् | नवभिः द्वारैः, बहुभिः दुर्गैः परीक्षितं, उद्यानैः गृहैः च अलङ्कृतम् अतीव सुन्दरम् नगरम् आसीत् एतत् | उद्यानस्य अन्ते यदा गतवान् सः एकां सुन्दरीं बालां दृष्टवान् | तस्याः दश दासाः येषां प्रत्येकानां शतपत्न्याः आसन् | पञ्चशीर्षसर्पेन संरक्षिता सा बाला पुरञ्जनं स्वस्याः सौन्दर्येन कामात्मतया च व्यमोहयत् | कामोद्भवा प्रीतिः उत्पन्ना जाता तयोः मध्ये | तया सह विवाहं कृत्वा पुरञ्जनः नवद्वारपुर्या: अन्तः गतवान् |
एतावत् पर्यन्तं कथायाः प्रथमोभागः | अग्रे किं भविष्यति इति द्वितीये भागे द्रक्ष्यामः | द्वितीयः भागः शीघ्रं हि अनुवर्तते...अत्र पश्यन्तस्सन्तु सर्वे इति प्रार्थये :) !!
(to be continued...)

No comments:
Post a Comment