Sunday, June 17, 2012

Simple conversations in Sanskrit

नमस्ते

Last week, during our L1 (beginners) phone class, we discussed a few situations where we could invoke some of our basic conversational skills in Sanskrit. Let us revise them again -


******************************************************************************************

प्रथमं -

" भोजनालये "

ग्राहकः - आनन्दः
परिवेषकः - अक्षयः

प - नमस्ते ! आगच्छतु महोदय | उपविशतु अत्र |
ग्र - धन्यवादः |
प - किम् इच्छति भवान् ?
ग्र - जलं आवश्यकम् |
प - अस्तु, जलं आनयामि |

(परिवेषकः जलं ददाति)

प - एतत् जलं स्वीकरोतु | अन्यत् किम् आवश्यकम् ?
ग्र - धन्यवादः | भोजनावलिः (menu card) अस्ति वा? दृष्ट्वा वदामि |
प - अस्तु | ... एताम्  स्वीकरोतु...भोजनावलिः |
ग्र - Hmm... अहम् 'इड्लीम्' बहु इच्छामि | कृपया आनयतु |
प - निश्चयेन | भवान्  अन्यत्  किमपि इच्छति वा ? चायपानं?
ग्र - न | मास्तु ... तत् पर्याप्तं | धन्यवादः |
प - अस्तु | शीघ्रम् इड्लीम् आनयामि |

द्वितीयम् - 

"शाटिका-आपणे " (saree shop)

ग्राहिका - लक्ष्मी
आपणस्य स्वामी - सुदर्शनः

स्वा - नमस्ते नमस्ते ! आगच्छतु भगिनि आगच्छतु ...स्वागतं |
ग्र - धन्यवादः |
स्वा - किम् इच्छति भवती?
ग्र - शाटिकां इच्छामि | कृपया दर्शयतु |
स्वा - निश्चयेन | अत्र शाटिकाः उत्तमाः | ... एताम् शाटिकां पश्यतु, सम्यक् अस्ति वा?
ग्र - आम् , सम्यक्  अस्ति | एतस्याः मूल्यं किं?
स्वा - मूल्यं केवलं पञ्चविंशतिः डालरानि  |
ग्र - अहो ! मूल्यं अधिकं अस्ति |
स्वा - न भगिनि | एतत् विशेष-विक्रयण-वस्तु (special sale) | मूल्यं न्यूनं एव |
ग्र - न न इतोऽपि न्यूनं भवितव्यं | अहं विंशतिः डालरानि  एव ददामि |
स्वा - न महोदये ! असम्भवं !
ग्र - अस्तु | तर्हि अन्यत्र गच्छामि |
स्वा - किमर्थं एषः कोपः भगिनि ? अस्तु, त्रयोविंशतिः डालरानि ददातु | अन्तिमं मूल्यं एतत् |
ग्र - न, विंशतिः भवति चेत् तिस्रः शाटिकाः क्रीणामि |
स्वा - अस्तु अस्तु, तिस्रः नयतु | चायपानं, शैत्यपानं किमपि इच्छति वा भवती?
ग्र - न, मास्तु | शाटिकाः एव पर्याप्तं, धन्यवादः |

******************************************************************************************

उपरि स्थितानि संभषणानि पठित्वा स्वयं एकं संभाषणम् रचयतु |

धन्यवादः


3 comments:

Pankaj said...

एतत अति सांयक अस्ति
धन्वादः

erection pills online viagra said...

What's up, yes this paragraph is in fact nice and I have learned lot of things from it about blogging. thanks.

erection pills online viagra said...

It's in fact very complex in this busy life to listen news on Television, therefore I just use world wide web for that reason, and obtain the most recent news.