Thursday, June 7, 2012

पुनरुत्थानम् !

नमस्ते

मम नाम सुदर्शनः | Pittsburgh-नगरे त्रिवर्षेभ्यः Carnegie Mellon विश्वविद्यालये PhD-पठनम् कुर्वन् अस्म्यहं | एतत् तु मम प्रथमं योगदानं अस्मिन् Blog-मध्ये यद्यपि त्रिवर्षेभ्यः एव संस्कृतस्य पठनं अध्ययनं च प्रवर्तमानं अस्ति मम... (स्वगतं  - धिक् माम्  !) | बहुकालतः मम नितराम् इच्छा आसीत् यत् अस्मिन् जालगते (blog) मया यत्किमपि कथंचित् लिखितव्यं अस्ति किन्तु विस्मरणशक्त्या वा कार्यनिमित्तं त्रिवर्षेभ्यः परं मम योगदानस्य गणना रिक्ता | किन्तु इतः परं न | संस्कृतस्य छात्रः भूत्वा यावत् शक्यम् संभाषणे वा लेखने वा उभयोरपि कौशलम् वर्धेनीयम् इति मम अभिप्रायः | अपि च न्यूनतान्यूनम् लेखने कौशलं च सामर्थ्यं वर्धते चेत् संभाषणे स्वयमेव प्रगतिः दृश्येत इत्यपि मम चिन्तनम् |

अतः अद्य आरभ्य यदा यदा समयः प्राप्स्यामि तदा तदा यत्किमपि अत्र लेखिष्यामि इति मम निश्चयः | लेखनविषयेषु कथाः (हास्य पौराणिक सूचनात्मक इत्यादि) सुभाषितानि गीतोपदेशचर्चाः च (उदाहरणार्थं) | एतेषां लेखनेन न केवलं मम अभ्यासः भवेत् अपि तु पठतां जनानाम् संस्कृतछात्राणां च एतस्यां भाषायां अभिरुचिः वर्धेत अपि | अत्र अहमेव लिखामि इत्येतस्य तात्पर्यः न अथतु अन्यैः लिखितानि योगदानानि अपि आवश्यकानि विशेषतया L1/L2/L3/L4... वर्गाणां छात्रैः इति प्रार्थये |

अस्तु | परिचयः अभवत् | शीघ्रं हि एकस्याः कथायाः लेखनेन अस्य जालगतस्य पुनरुत्थानम् करिष्यामि ! अपि च लेखने यदि दोषाः दृष्यन्ते कृपया माम्  क्षम्यतां |

No comments: