Friday, August 1, 2008

चतुरः सेवकः

कस्मिञ्चित् ग्रामे एकः सज्जनः निवसति । एकस्मिन् दिने तस्य गृहम् एकः अतिथिः आगमिष्यति इति तेन ज्ञातम् । ग्रीष्मऋतुः अस्ति, आम्रफलानि बहूनि लभ्यन्ते । अतिथेः कृते आम्रफलानि दास्यामि इति चिन्तयित्वा सेवकं विपणिं प्रति प्रेषितवान् आम्रफलानि क्रेतुम् ।

सेवकः विपनिं गतवान् । तत्र अतीव रुचिकरानि त्रीणि आम्रफलानि क्रीतवान् । गृहम् प्राप्य तानि कर्तयितुम् आरब्धवान् । फलानि तु मधुरानि दृश्यन्ते । तानि खादितुं इछ्छा प्रवृद्धा । किन्तु कथं वा खादेत् ? तस्य यजमानि जानीयात् चेत् कष्टमेव किल । किन्तु इछ्छा तु बहु गाढा । एकं भागं खादामि चेदपि कोऽपि न जानीयात् इति मत्वा प्रथमस्य फलस्य एकं भागं खादितवान् सः । रुचिः मधुरा । इदानीम् अन्येकं खादितुम् कांक्षा तस्य मनसि आगता । "त्रीणि फलानि सन्ति । यदि एकं पूर्णं फलं खादामि चेदपि यजमानि न ज्ञातुं शक्नोति", इति चिन्तयित्वा प्रथम फलं संपूर्णं खादितवान् । किन्तु मधुरं प्रति इछ्छा तु तावदेव अस्ति । सा इछ्छा तेन न निर्गृहीता । एवम् एकमेकं भागं खादित्वा खादित्वा त्रीणि फलानि अपि खादितवान् सः ! इदानीं यजमानीं किम् वदेत् ? यदि यजमानि जानीयात् यत् सेवकः स्वयं फलानि खादितवन्, तदा तु क्रुद्धः भवेत् । एकः उपायः चिन्तितः ।

यजमानि पाकशालां आगतवान् । "फलानि कुत्र ?" इति सेवकं प्रुष्टवान् । तदा सेवकः अवदत् "अहम् छुरकस्य पटूकरणे मग्नः आसम् । विपणिं गन्तुं समयः न प्राप्तः मया", इति । अतिथेः आगमनसमयः जातः । यदि तत्पूर्वं फलानि न आनीतानि, अतिथिसत्कारं कथम् भवेत् ? एवम् चिन्तयन् यजमानि सेवकम् उक्तवान् "भवान् तत्क्षणं विपनिं गत्वा फलानि आनयतु । छुरकम् अहं पटूकरोमि" इति । सेवकः आश्वासितवान् !

यदा सः बहिः गतवान् तदा दूरे अतिथिः दृष्टः । अतिथिं प्रति वेगेन धावित्वा तम् उद्विग्नेन उक्तवान् "भवान् मम गृहं मा गछ्छतु । तत्र मम यजमानि भवतः कर्णौ नासिकां च कर्तयितुं सिद्धः अस्ति । किमर्थम् इति अहं अपि न जाने । किन्तु तत् सत्यम् । यदि मयि विश्वासः नास्ति तर्हि भवान् एव पाकशालां गत्वा पश्यतु । सः छुरकम् अपि पटूकुर्वन् अस्ति ", इति । अतिथिः पाकशालायां छुरकं पटूकुर्वन्तम् एकं पुरुषं दृष्टवान् । बहु भीतः अभवत्। सेवकस्य वाक्यानि सत्यमेव इति चिन्तयित्वा झटिति ततः पलायनं कृतवान् ।

कीयत् चतुरः एषः सेवकः । आम्रफलानि अपि खादितवान् । स्वस्य यजमानिमपि सम्मूढितवान् !

:-)