Sunday, June 17, 2012

Simple conversations in Sanskrit

नमस्ते

Last week, during our L1 (beginners) phone class, we discussed a few situations where we could invoke some of our basic conversational skills in Sanskrit. Let us revise them again -


******************************************************************************************

प्रथमं -

" भोजनालये "

ग्राहकः - आनन्दः
परिवेषकः - अक्षयः

प - नमस्ते ! आगच्छतु महोदय | उपविशतु अत्र |
ग्र - धन्यवादः |
प - किम् इच्छति भवान् ?
ग्र - जलं आवश्यकम् |
प - अस्तु, जलं आनयामि |

(परिवेषकः जलं ददाति)

प - एतत् जलं स्वीकरोतु | अन्यत् किम् आवश्यकम् ?
ग्र - धन्यवादः | भोजनावलिः (menu card) अस्ति वा? दृष्ट्वा वदामि |
प - अस्तु | ... एताम्  स्वीकरोतु...भोजनावलिः |
ग्र - Hmm... अहम् 'इड्लीम्' बहु इच्छामि | कृपया आनयतु |
प - निश्चयेन | भवान्  अन्यत्  किमपि इच्छति वा ? चायपानं?
ग्र - न | मास्तु ... तत् पर्याप्तं | धन्यवादः |
प - अस्तु | शीघ्रम् इड्लीम् आनयामि |

द्वितीयम् - 

"शाटिका-आपणे " (saree shop)

ग्राहिका - लक्ष्मी
आपणस्य स्वामी - सुदर्शनः

स्वा - नमस्ते नमस्ते ! आगच्छतु भगिनि आगच्छतु ...स्वागतं |
ग्र - धन्यवादः |
स्वा - किम् इच्छति भवती?
ग्र - शाटिकां इच्छामि | कृपया दर्शयतु |
स्वा - निश्चयेन | अत्र शाटिकाः उत्तमाः | ... एताम् शाटिकां पश्यतु, सम्यक् अस्ति वा?
ग्र - आम् , सम्यक्  अस्ति | एतस्याः मूल्यं किं?
स्वा - मूल्यं केवलं पञ्चविंशतिः डालरानि  |
ग्र - अहो ! मूल्यं अधिकं अस्ति |
स्वा - न भगिनि | एतत् विशेष-विक्रयण-वस्तु (special sale) | मूल्यं न्यूनं एव |
ग्र - न न इतोऽपि न्यूनं भवितव्यं | अहं विंशतिः डालरानि  एव ददामि |
स्वा - न महोदये ! असम्भवं !
ग्र - अस्तु | तर्हि अन्यत्र गच्छामि |
स्वा - किमर्थं एषः कोपः भगिनि ? अस्तु, त्रयोविंशतिः डालरानि ददातु | अन्तिमं मूल्यं एतत् |
ग्र - न, विंशतिः भवति चेत् तिस्रः शाटिकाः क्रीणामि |
स्वा - अस्तु अस्तु, तिस्रः नयतु | चायपानं, शैत्यपानं किमपि इच्छति वा भवती?
ग्र - न, मास्तु | शाटिकाः एव पर्याप्तं, धन्यवादः |

******************************************************************************************

उपरि स्थितानि संभषणानि पठित्वा स्वयं एकं संभाषणम् रचयतु |

धन्यवादः


Sunday, June 10, 2012

माम् एकं शरणम् व्रज - 1

नमस्ते

मम वचनानुसारं अद्य एकाम् कथाम् श्रावयामि | निश्चयेन भवन्तः सर्वे कदाचित् मनसि चिन्तयेयुः यत् लोके अस्माकं तात्विक लक्ष्यः कः इति, न खलु ? श्रेयः, धनं, सौकर्यं, स्वस्थता, पारिवारिक कौशल्यं इत्यादि तु सन्ति एव किन्तु इतोऽपि मनुष्यः मानसिक शान्तिः अपि यतते | पूर्वैः साधुभिः बहुना ध्यानेन च तपसा ज्ञातं यत् "आत्मज्ञानं" एकमेव उपायं जन्ममरणचक्रतः मोक्षार्थं | वेदान्तस्य सारं भवति एतत् | बहवः मार्गाः सन्ति आत्मज्ञानार्थं यस्मिन् प्रसिद्धेषु एकः अस्ति भक्तिमार्गः | परब्रह्मनेव गतिः लक्ष्यः च इति मत्वा तस्य आराधने संकीर्तने जीवनं यापयन्ति भक्ताः | किन्तु एतत् कलियुगम्; द्वन्द्वमोहेन (राग-द्वेष, जय-विजय, लाभ-अलाभ ...) लक्ष्यः अस्पष्टः जातः | एतस्मिन् विषये एव अत्र पश्यामः श्रीमद्भागवतपुराणात् एकाम्  कथाम्  यत् स्वयं नारदमुनिना उक्तं राज्ञे प्राचीनबर्हिषदे | चतुर्थे स्कन्धे पञ्चविंशतितमे अध्याये एषा कथा दृश्यते | बहु रोचते मह्यं एषा कथा अतः भवद्भ्यः अपि श्रावयामि |

एकदा राजा प्राचीनबर्हिषत्  यज्ञकर्मसु बहु आसक्तिः प्रकटयति स्म | तदा गच्छता नारदमुनिना राजानम् उक्तम् - "भोः राजन् ! ईदृशैः यज्ञकर्मभिः किं इच्छसि त्वं? कर्मबन्धादेव विमोचनं यतते न वा? किन्तु यज्ञकर्मणः फलं यदि काङ्क्षसे पुनः तैः कर्मभिरेव बध्यसे एव |" एतत् श्रुत्वा राजा तं अवदत् "आम्, सत्यं प्रभो | अतः कृपया भवान्  एव सुनीथे पथि माम् नयतु, ब्रूहि मे विमलम् ज्ञानं येन मुच्येय कर्मभिः |" नारदमुनिः प्रत्यवदत् "तथास्तु प्रजापते ! कर्मबन्धविमोचनाय पुरञ्जनस्य चरितं इति एकां पुरातनाम् इतिहासकथां कथयिष्ये | शृणु तत् |"

(अस्माभिः अपि सावधानतया श्रोतव्या ! त्रिषु भागेषु कथायाः विभजनं कृतं मया |)

नारदः वदति -
आसीत्पुरञ्जनो नाम राजाराजन्बृहच्छ्रवाः | तस्याविज्ञातनामासीत्सखाविज्ञातचेष्टितः ||

पुरञ्जनः नाम्ना एकः राजा आसीत् | तस्य सखा एकः आसीत् अविज्ञाता इति नाम्ना | मित्रेण सह राजा पुरञ्जनः स्वस्य वासार्थं स्थलं अन्वेषयन् गच्छति स्म | बहु अन्वेषनानन्तरमपि किमपि न अलभ्यत तेन | अन्ते हिमालयस्य दक्षिणदिग्भागे एकं नगरं अपश्यत् | नवभिः द्वारैः, बहुभिः दुर्गैः परीक्षितं, उद्यानैः गृहैः च अलङ्कृतम्  अतीव सुन्दरम् नगरम् आसीत् एतत् | उद्यानस्य अन्ते यदा गतवान् सः एकां सुन्दरीं बालां दृष्टवान् | तस्याः दश दासाः येषां प्रत्येकानां शतपत्न्याः आसन् | पञ्चशीर्षसर्पेन संरक्षिता सा बाला पुरञ्जनं स्वस्याः सौन्दर्येन कामात्मतया च व्यमोहयत् | कामोद्भवा प्रीतिः उत्पन्ना जाता तयोः मध्ये | तया सह विवाहं कृत्वा पुरञ्जनः नवद्वारपुर्या: अन्तः गतवान् |

एतावत्  पर्यन्तं कथायाः प्रथमोभागः | अग्रे किं भविष्यति इति द्वितीये भागे द्रक्ष्यामः | द्वितीयः भागः शीघ्रं हि अनुवर्तते...अत्र पश्यन्तस्सन्तु सर्वे इति प्रार्थये :) !!

(to be continued...)

Thursday, June 7, 2012

पुनरुत्थानम् !

नमस्ते

मम नाम सुदर्शनः | Pittsburgh-नगरे त्रिवर्षेभ्यः Carnegie Mellon विश्वविद्यालये PhD-पठनम् कुर्वन् अस्म्यहं | एतत् तु मम प्रथमं योगदानं अस्मिन् Blog-मध्ये यद्यपि त्रिवर्षेभ्यः एव संस्कृतस्य पठनं अध्ययनं च प्रवर्तमानं अस्ति मम... (स्वगतं  - धिक् माम्  !) | बहुकालतः मम नितराम् इच्छा आसीत् यत् अस्मिन् जालगते (blog) मया यत्किमपि कथंचित् लिखितव्यं अस्ति किन्तु विस्मरणशक्त्या वा कार्यनिमित्तं त्रिवर्षेभ्यः परं मम योगदानस्य गणना रिक्ता | किन्तु इतः परं न | संस्कृतस्य छात्रः भूत्वा यावत् शक्यम् संभाषणे वा लेखने वा उभयोरपि कौशलम् वर्धेनीयम् इति मम अभिप्रायः | अपि च न्यूनतान्यूनम् लेखने कौशलं च सामर्थ्यं वर्धते चेत् संभाषणे स्वयमेव प्रगतिः दृश्येत इत्यपि मम चिन्तनम् |

अतः अद्य आरभ्य यदा यदा समयः प्राप्स्यामि तदा तदा यत्किमपि अत्र लेखिष्यामि इति मम निश्चयः | लेखनविषयेषु कथाः (हास्य पौराणिक सूचनात्मक इत्यादि) सुभाषितानि गीतोपदेशचर्चाः च (उदाहरणार्थं) | एतेषां लेखनेन न केवलं मम अभ्यासः भवेत् अपि तु पठतां जनानाम् संस्कृतछात्राणां च एतस्यां भाषायां अभिरुचिः वर्धेत अपि | अत्र अहमेव लिखामि इत्येतस्य तात्पर्यः न अथतु अन्यैः लिखितानि योगदानानि अपि आवश्यकानि विशेषतया L1/L2/L3/L4... वर्गाणां छात्रैः इति प्रार्थये |

अस्तु | परिचयः अभवत् | शीघ्रं हि एकस्याः कथायाः लेखनेन अस्य जालगतस्य पुनरुत्थानम् करिष्यामि ! अपि च लेखने यदि दोषाः दृष्यन्ते कृपया माम्  क्षम्यतां |

Thursday, November 4, 2010

Sunday, September 27, 2009

विजयदशम्याः शुभाषयाः

सर्वेभ्यो नमः ।

नवरात्रस्य समाप्तस्य कालः अस्ति । अस्य महोत्सवस्य अन्तिमदिनं विजयदशमी इति वयम् सम्यक् जानीमः । अस्मिन् पर्वदिने सर्वेभ्यो हृदयपूर्वकाः शुभाषयाः । अशुभस्य पराजयं भवतु विजयं शुभस्य भवतु इति प्रार्थना ।

भवदीयः
हरिः