Monday, October 27, 2008

दीपावलि-पर्वदिनस्य शुभाषयाः

सर्वेभ्यो नमो नमः

अद्य श्वः च भारते दीपावली आचर्यते । सर्वेभ्यो अस्य पर्वदिनस्य शुभाषयाः । यद्यपि भारते इव अत्र अधिकं कोलाहलं कर्तुं न शक्नूमः तथापि बाल्यकालस्य दीपावलीः स्मृत्वा अत्र अपि आनन्दम् अनुभ्वामः इति मम इछ्छा । गृहेषु यावन् शक्यते तावन् दीपान् ज्वालयामः मधुरानि खादामः बन्धुमित्रैः सह अभिनन्दनानि च प्रसारयामः ।

नरकचतुर्दशी नाम आश्वायुजमासस्य चतुर्दशमे दिने च अमावास्ये दीपावली भवति । विश्वासः अस्ति यत् अस्मिन् दिने श्रीरामः सीतालक्ष्मणाभ्यां सह अयोध्यानगरीं प्रत्यागतवान् इति । दानवस्य नरकासुरस्य मृत्युः अपि श्रीकृष्णस्य पत्न्या सत्यभामया (भूदेव्याः अवताररूपिणि) अस्मिन् दिने एव कृतः इति अपि उच्यते । लक्ष्मीदेवी अपि विशेषतया सम्पूज्यते ।

शुभं भवतु ।

1 comment:

Malik Hakem al-Baqara said...

felt very happy reading this post. hearty greetings on Deepavali to you and all the posters and readers on this blog!