Thursday, September 18, 2008

shlokeShu vibhaktayaH

नमो नमः ।

वयं बहून् श्लोकान् सुभाषितानि च जानीमः । तेषु यदि किञ्चित् ध्यानं दद्मः तर्हि विभक्तिपठनं कर्तुं शक्नुमः । उदाहरणार्थम् -

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

अत्र "वन्दे" इति क्रिया । तर्हि प्रश्नः भवति "कं वन्दे"? उत्तरं द्वितीया विभक्त्यां भवितुम् आवश्यकं किल ।

इदानीं "कं वन्दे" इत्यस्य प्रश्नस्य उत्तराणि पश्यामः ।

१) कृष्णं वन्दे ।
२) कृष्णः कः? वसुदेवसुतः । अतः "वसुदेवसुतं कृष्णं वन्दे" ।
३) कृष्णः देवः अपि । अतः "वसुदेवसुतं देवं कृष्णं वन्दे" ।
४) कृष्णः कंसचाणूरमर्दनः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं कृष्णं वन्दे" ।
५) कृष्णः देवकीपरमानन्दः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे" ।
६) कृष्णः जगतः गुरुः इत्युक्ते जगद्गुरुः । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् " ।

अस्ति खलु सरलम् ?

एवम् अन्यान् श्लोकान् स्वीकृत्य कोऽपि लिखतु ।

धन्यवादः ।

हरिः ।

No comments: