ह्यः कक्ष्यायाम् "आत्मनेपदी धातुः" इति पठितवन्तः ।
सामान्यतया यानि क्रियापदानि वयं जानीमः तेषु ’ति’ इति अन्ते भवति । यथा ’गच्छति’ ’पठति’ इत्यादि । एतानि ’परस्मैपदी धातु’-पदानि इति वदन्ति ।
अन्यानि पदानि अपि सन्ति येषाम् अन्ते ’ते’ इति भवति । यथा ’वन्दते’ ’वर्धते’ ’सेवते’ इत्यादीनि । एतानि ’आत्मनेपदी धातु’-पदानि इति वदन्ति । एतेषां लट्लकाररूपाणि पश्यन्तु -
वन्दते वन्देते वन्दन्ते
वन्दसे वन्देथे वन्दध्वे
वन्दे वन्दावहे वन्दामहे
आत्मनेपदिधातूनाम् अन्यानि उदाहरणानि सन्ति - लभते, वर्धते, वर्तते, बाधते, मोदते, सहते, सेवते, याचते, मन्यते, हरते, युध्यते, जायते, इत्यादीनि ।
उदाहरणार्थं कानिचन वाक्यानि - अहं जगद्गुरुं कृष्णं वन्दे । संस्कृतं वर्धते । वयं मिलित्वा संस्कृतं वर्धावहे । गीतायां श्लोकः अस्ति "यः एनं वेत्ति हन्तारं यः च एनं मन्यते हतम्" इत्यादि ।
गृहपाठः
अग्रीम कक्ष्यार्थम् एकं गृहपाठं कुर्मः । किमपि एकं पदं (उपरि ये सन्ति) स्वीकृत्य तस्य लट्लकाररूपाणि लिखन्तु । तस्य लृट्, लोट्, विधिर्लिङ् लकारान् पठन्तु च । लेखितुं न आवश्यकम् ।
Thursday, February 19, 2009
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment