Monday, February 23, 2009

L1 gRuha pAThaH गृह पाठः

अद्य कक्ष्यायां गृहपाठं प्रदर्शितवन्तः । पश्यन्तु ।

सुहासः


१) हरिः संस्कृतं जानाति ।

२) सुहासः मद्यं न पिबति ।

३) अहं गृहपाठं लिखामि ।

४) अहं बेङ्गलूरुं स्मरामि ।

५) अहं विद्यालयं गच्छामि ।

अनघा

१) अद्य शिवरात्रिः अस्ति ।

२) शिवस्य त्रीणि नेत्राणि सन्ति ।

३) शिवः ताण्डवं करोति ।

४) शिवस्य पुत्रः गणेशः ।

५) शिवस्य गृहं हिमालयाः ।

६) गणेशस्य जनन्याः नाम किम् ?
सुहासः वदति "गणेशस्य जनन्याः नाम पार्वती" ।

अखिला

१) भवान् कुत्र वसति ?
हरिः वदति "अहं स्क्विरेल् हिल् प्रदेशे वसामि" ।

२) देवः एकत्र एव नास्ति । सर्वत्र अस्ति ।

३) मम पुत्र्याः नाम सौम्या ।

४) सा नर्तकी अस्ति ।

५) अहं प्रतिदिनं सार्धाष्टवादने योगासनं करोमि ।

Thursday, February 19, 2009

AtmanepadI / आत्मनेपदी

ह्यः कक्ष्यायाम् "आत्मनेपदी धातुः" इति पठितवन्तः ।

सामान्यतया यानि क्रियापदानि वयं जानीमः तेषु ’ति’ इति अन्ते भवति । यथा ’गच्छति’ ’पठति’ इत्यादि । एतानि ’परस्मैपदी धातु’-पदानि इति वदन्ति ।

अन्यानि पदानि अपि सन्ति येषाम् अन्ते ’ते’ इति भवति । यथा ’वन्दते’ ’वर्धते’ ’सेवते’ इत्यादीनि । एतानि ’आत्मनेपदी धातु’-पदानि इति वदन्ति । एतेषां लट्लकाररूपाणि पश्यन्तु -


वन्दते वन्देते वन्दन्ते
वन्दसे वन्देथे वन्दध्वे
वन्दे वन्दावहे वन्दामहे

आत्मनेपदिधातूनाम् अन्यानि उदाहरणानि सन्ति - लभते, वर्धते, वर्तते, बाधते, मोदते, सहते, सेवते, याचते, मन्यते, हरते, युध्यते, जायते, इत्यादीनि ।

उदाहरणार्थं कानिचन वाक्यानि - अहं जगद्गुरुं कृष्णं वन्दे । संस्कृतं वर्धते । वयं मिलित्वा संस्कृतं वर्धावहे । गीतायां श्लोकः अस्ति "यः एनं वेत्ति हन्तारं यः च एनं मन्यते हतम्" इत्यादि ।

गृहपाठः

अग्रीम कक्ष्यार्थम् एकं गृहपाठं कुर्मः । किमपि एकं पदं (उपरि ये सन्ति) स्वीकृत्य तस्य लट्लकाररूपाणि लिखन्तु । तस्य लृट्, लोट्, विधिर्लिङ् लकारान् पठन्तु च । लेखितुं न आवश्यकम् ।

Wednesday, February 11, 2009

एकं सम्भाषणम्

अद्य त्रिवेणी गणस्य Level 2 वर्गे एतत् सम्भाषणं प्राचलत् । पठन्तु आनन्दम् अनुभवन्तु च ।

हरिः - किं देवि, पञ्च-अधिक-सप्तवादनम् (7:05) अभवत् । एकः अपि न आगतवान् ।

सरस्वतीदेवी - अहं कथं जानामि? भवतः कक्ष्या अस्ति ।

हरिः - अस्तु । प्रतीक्षां कुर्वः तर्हि । प्रातः अहम् e-पत्रे उक्तवान् यत् अद्य किञ्चित् "interesting" कुर्मः कक्ष्यायाम् इति । तद्विषये अधिकं चिन्तनं करोमि ।

(दशनिमिषानन्तरम्)

हरिः - मातः । पूर्वम् अखिलाभगिनी एकं ’चन्दमामा’ इति पुस्तकं दत्तवाती मह्यम् । तत् अहं पठामि । सम्यक् वा?

सरस्वती - उत्तमम् । मह्यम् अपि चन्दमामा बहु रोचते । संस्कृते चन्दमामां पठितुं सुदीर्घम् इच्छा असीत् मम । अद्य सा इच्छा सम्पन्ना भवति । उत्तमम् ! बहु उत्तमम् !

हरिः - एवं वा? भाषाणां देवी अस्ति भवती । भवत्यै पठनं मम् सौभागः अस्ति ! श्रुणोतु । प्रथमा कथा अस्ति कस्यचित् मनोहरस्य विषये । सः कुरूपी बालकः । सः कथं जीवने अग्रे गच्छति इति पश्यावः ।

[कथा समाप्ता]

हरिः - अम्बा । कथा भवत्यै रोचते इति आशां करोमि । किन्तु इदानीम् समयः प्रायः सार्धसप्तवादनम् (7:30) । किमर्थम् एकोऽपि न आगतवान् इति न अवगच्छामि । अहम् अद्यतन अधिकव्यायामात् श्रान्तः अस्मि । गृहं गच्छामि वा ?

सरस्वती - तत् कथम् ? अहम् अग्रे किम् अस्ति इति ज्ञातुम् इच्छामि ।

हरिः - अस्तु मातः । भवती मम BOSS अस्ति ! भवती यथा वदति तथैव करोमि । भारतदेशे कीदृशानि पर्वतरेलयानानि (mountain railways) सन्ति इत्यस्मिन् विषये किमपि अस्ति । तत् पठावः ।

[तत् अपि समाप्तम्]

सरस्वती - बहु रोचनीयं खलु ! इतोऽपि यदा भवान् भारतं गच्छति तदा निश्चयेन तेन रेलयानेन डार्जीलिङ्ग् (Darjeeling) गच्छतु । अग्रे किम् आस्ति ?

हरिः - अग्रे विक्रमार्क-वेताळयोः कथा अस्ति । किन्तु अम्बा, यदि अहं ज्ञातवान् स्याम् जनाः न आगच्छन्ति कक्ष्या न भवति च इति तर्हि अहं मम सहपाठिभिः सह भोजनार्थं गतवान् स्याम् । अद्य वर्गः अस्ति अतः न आगच्छामि इति उक्तवान् तान् । अत्र वर्गः अपि न प्रचलति तत्र भोजनम् अपि अहं त्यक्तवान् । अहो बत !

सरस्वती - चिन्तां किमर्थं करोति वत्स ? कालक्षेपार्थम् अहम् अत्र अस्मि खलु । निराशी मा भवतु । विक्रमस्य कथां पठतु ।

हरिः - आम् । सत्यमेव किल ! अहमेव मूर्खः अस्मि यतः भवतीं विस्मृतवान् । अस्तु । कथा आरब्धा । सदा इव विक्रमः वेताळं स्कन्धयोः स्तापयित्वा निर्गच्छति । वेताळः कथां श्रावयति ।

[किञ्चित् कालं जातम् । कथा अपि समाप्ता जाता]

हरिः - उत्तमा कथा आसीत् खलु ? अयि पश्यतु । अष्टवदनम् (8:00) अभवत् । वर्गस्य सामाप्तिः अष्टवादने भवति । आवाम् अपि गच्छावः वा ?

सरस्वती - आम् । गच्छावः । भवान् अद्य मह्यं कथाः श्रावितवन् अतः भवते वरं दास्यामि । एवमेव वर्गान् चालयतु तर्हि पञ्चवर्षानन्तरं भवतः भाषावर्गेषु न्यूनातिन्यूनं पञ्च छात्राः भवेयुः सम्यग्तया पठेयुः च ।

हरिः - धन्योऽस्मि देवि धन्योऽस्मि । सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ! निर्गच्छावः । बहिः तु वृष्टिः अस्ति । लोकयानं लभ्यते इति आशये ।

सरस्वतीदेवी - चिन्ता मास्तु । यदा स्थानकं प्राप्नोसि तदा अचिरात् एव ’६१ च’ (61 C) इति लोकयानम् आगच्छेत् । शुभरात्रिः तर्हि ।

हरिः - शुभरात्रिः मातः । सहस्राः धन्यवादाः ।

किञ्चित् कालानन्तरं हरिः मनसि चिन्तयति - "अहो मम सौभाग्यं दृश्यताम् । यथा देवी उक्तवती तथैव ’६१ च्’ (61 C) लोकयानम् आगतम् ! :-) :-) :-)