Wednesday, September 24, 2008

कार्याणि कथं सिध्यन्ति?

नमस्ते,
मम् प्रथमं लेखनम्| कृपया टिप्पणीः ददातु|

कार्यं सिध्यति| कार्याणि सिद्धयन्ति|
कार्याणि कथं सिद्धयन्ति? कार्याणि उद्यमेन (उद्यम इत्युक्ते श्रमः) सिद्धयन्ति|
कार्याणि कथं न सिद्धयन्ति? कार्याणि केवलं मनोरथैः (मनोरथः इत्युक्ते इच्छा अथवा संकल्प) न सिद्धयन्ति|
चिन्तयतु सिम्हः सुप्तः अस्ति| तस्य मुखं उध्घाटितम् अस्ति| मृगः तस्य मुखे स्वेच्छाय प्रवेशम् करिष्यति वा? न प्रविश्यति| तर्हि अनेके मृगाः न प्रविश्यन्ति खलु|
सिंहेन अपि अन्नं प्रप्तुम कष्टं करानियम भवति |

-हर्षलः
सम्पादनं हरिः
उत्तर्लिपि (PS): अत्र एतस्य सम्बन्धि एका विनोदिका अस्ति |

Thursday, September 18, 2008

shlokeShu vibhaktayaH

नमो नमः ।

वयं बहून् श्लोकान् सुभाषितानि च जानीमः । तेषु यदि किञ्चित् ध्यानं दद्मः तर्हि विभक्तिपठनं कर्तुं शक्नुमः । उदाहरणार्थम् -

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

अत्र "वन्दे" इति क्रिया । तर्हि प्रश्नः भवति "कं वन्दे"? उत्तरं द्वितीया विभक्त्यां भवितुम् आवश्यकं किल ।

इदानीं "कं वन्दे" इत्यस्य प्रश्नस्य उत्तराणि पश्यामः ।

१) कृष्णं वन्दे ।
२) कृष्णः कः? वसुदेवसुतः । अतः "वसुदेवसुतं कृष्णं वन्दे" ।
३) कृष्णः देवः अपि । अतः "वसुदेवसुतं देवं कृष्णं वन्दे" ।
४) कृष्णः कंसचाणूरमर्दनः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं कृष्णं वन्दे" ।
५) कृष्णः देवकीपरमानन्दः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे" ।
६) कृष्णः जगतः गुरुः इत्युक्ते जगद्गुरुः । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् " ।

अस्ति खलु सरलम् ?

एवम् अन्यान् श्लोकान् स्वीकृत्य कोऽपि लिखतु ।

धन्यवादः ।

हरिः ।

Wednesday, September 3, 2008

नमो नमः !

सर्वेभ्यः गणेश चतुर्थ्या: शुभाशयाः! अथ विनायाकास्यावातारास्य कारणं को अपि जानाति वा? यदि जानाति चेत तर्हि अत्र लिखतु, अथवा अहम् लिखामि |

सप्रियः
अरविन्दः