Saturday, July 19, 2008

Read vishvavANI

Please read the new issue of vishvavANI, webzine published by Campus Samkritam Network.

http://www.speaksanskrit.org/vishvavani/index.shtml

Friday, July 18, 2008

गुरु पूर्णिमा

सर्वेभ्यो नमो नमः ।

अद्य गुरुपूर्णिमा अस्ति । अस्माभिः गुरवः स्मरणीयाः । एतं श्लोकं प्रायः वयं सर्वे जनीमः एव ।

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्-पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥

यदि कोऽपि इच्छति शक्नोति च तर्हि कृपया पदछ्छेदनं कृत्वा अर्थम् लिखतु ।

Tuesday, July 15, 2008

भगवद्गीतां पठति चेत् धनं प्राप्नोति !

पुत्रः विद्यार्थं विदेशं गन्तुं सज्जीकुर्वन् अस्ति । पिता आगत्य भगवद्गीता-पुस्तकं पुत्राय दत्तवान् ।



"पुत्र! प्रतिदिनं रात्रिनिद्रायाः पूर्वं गीतायाः एकं पृष्टं पठतु । अनन्तरमेव निद्रां करोतु" इति पुत्रम् उक्तवान् पिता । "अस्तु तात । तथैव करोमि" इति पुत्रः अवदत्।



पुत्रः विदेशं गत्वा किञ्चित् कालं जातम् । तस्य समिपे मातापित्राभ्यां दत्तं धनं सर्वं यापितम् । अधिकधनार्थं पितरम् दूर्वाण्या आहूतवान् । "यथा अहं सूचितवान् तथा भवान् गीतआपाठं करोति वा प्रतिदिनं?" इति कुतूहलेन पृष्टवान् जनकः । "आम् तात । प्रतिदिनं निद्रायाः पूर्वं पठमि" इति प्रत्युत्तरं दत्तवान् पुत्रः । "भगवद्गीतायाः त्रिंषत्तमं पृष्टं यदा पठति तदा धनं दास्यामि", इति उक्तवान् पिता ।

"कीदृशः एषः मम जनकः, पुत्रः जीवनार्थं धनं याचति किन्तु सः गीतां पठितुं वदति!" इति चिन्तयन् संभाषणं तत्रैव समापितवान् पुत्रः ।


कथमपि सप्ताहद्वयं स्वस्य धनेन विना समयं यापितवान् पुत्रः । किन्तु कीयत् कालं तथैव सम्भवेत्? पुनः गृहं आहूतवान् । एतद्वारं मात्रा सह् वार्तालापं कृतवान् । स्वस्य समस्याः मातरं कथितवान् । मातुः हृदयं नवनीतमिव खलु ! सा पतिम् पुत्रस्य दुःस्थितिं निवेदितवति । किन्तु पितुः हृदयं मातुः इव न ! "पुत्रं वदतु गीतायाः त्रिंषत्तमं पृष्टं पठितुम्। अनन्तरमेव धनं दास्यामि " इति किञ्चित् कोपेन उक्तवान् पिता ।


एवमेव बहु कालं जातम् । पुत्रः धनं याचति पिता गीतां पठितुं तं वदति । इदं सर्वं जनन्या न सहितम् । पुत्रस्य विषये पिता एवं कथं प्रवर्तयेत्? पतिं कोपेन उक्तवति "कीदृशं भवतः पुत्रवात्सल्यम्? तत्र सः कष्टान् अनुभवति किन्तु भवान् तस्मै धनं अदत्त्वा एव गीतां पठितुं आज्ञापयति । यदी भवान् धनं न प्रेषयति तर्हि अहमेव कथमपि तस्मै प्रेषयामि" इति । पितिः पत्निं प्रीत्या पश्यन् अवदत् "हे मम प्रियपत्नि! पुत्रः सुखेन जीवेत् इति ममापि महती इच्छा । तस्य सौकर्यार्थं गीतापुस्तके प्रति त्रिंषत् पृष्टैः किञ्चित् किञ्चित् धनं स्थापितवान् । यदि सः वस्तुतया गीतां पठेत् तर्हि धनमपि प्राप्नुयात् । किन्तु सः पुस्तकं नैव उद्घाटितवान् । तदार्थम् धनं तत्र अस्ति इति न जानाति । किन्तु प्रतिदिनं गीतां पठामि इति असत्यमपि वदति । कथम् अहं तस्मै धनं प्रेषयानि?" इति ।


इदं कथनं पुत्रं अपि उक्तवति माता । स्वदोषं ज्ञात्वा पुत्रः पितरं क्षमाम् याचितवान् । तदा आरभ्य भगवद्गीतां अपि पठति स्म धनं अपि प्राप्नोति स्म !

Transliteration (contd..)


pArshve (on the side) nirdiSTaM (shown) citraM (picture) anusaritvA (following) lekhitum (to write) shaknUmaH (we will be able)
पार्श्वे निर्दिष्टं चित्रं अनुसरित्वा लेखितुं शक्नूमः ।
We can start writing either using english alphabet or devanAgiri using the transliteration rules shown in the picture.

Monday, July 14, 2008

sOmavAsaraH

namaste sarvebhyaH,

adya sOmavAsaraH. prAtaHkAle utthitum mama AsaktiH nAsIt eva. parantu kim karaNIyam, kAryAlayaH gamanIyaH. enam manovedanam 'sOmavAsara-prabhAta-nIlaH' iti uchyate.

mama daridra-parihAsam kshamyatAm.

Saturday, July 12, 2008

Transliteration

I use "baraha direct" for transliteration. Its a free software availabe on the web. Just google it!

Here is the "ka" thread:

क(ka) का(kA) कि(ki) की(kI) कु(ku) कू(kU) कृ(kRu) कॄ(kRU) के(ke) कै(kai) को(ko) कौ(kou) कं(kaM) कम्(kam) कः (kaH)।

"mama nAma hariH" becomes:

मम नाम हरिः ।

"bhavataH nAma kim?" becomes:

भवतः नाम किम् ?

I guess you can also use the "enable transliteration" somewhere in the settings of the blog and make the language "hindi". The rules will be different, though.

Friday, July 11, 2008

सुप्रभातम

मम प्रथमा प्रार्थना -
या कुंदेंदु तुशारहारधवला या शुभ्रा-वस्त्रावृता
या वीनावर-दंड-मंडित-करा या श्वेत-पद्मासना |
या ब्रह्माच्युत-प्रभ्र्तिभिः देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निः शेष जाड्यापहा ||

The one who is adorned with the flowers of kunda and waterdrops, who is covered in white adornments. The one who holds the Veena, provider of wishes (vara) as well as punishments (danda), and one who is seated on the white lotus; the one who is prayed to by Brahma-Vishnu and their likes - Let She protect me - Goddess Saraswathi - the one who removes all that is not complete and lethargy from my mind.
भीमसेन जोशी शास्त्रीयगायकेषु श्रेष्ठतमः । तस्य "शुद्ध कल्याणि" रागं श्रुत्वा अहं बहु आनन्दितः । न केवलम् शास्त्रीय सङ्गीतम् अपि तु दैवभजनानि अपि सः दिव्यं गायति ।

Thursday, July 10, 2008

नमो नमः

सर्वेभ्यो नमो नमः सुस्वागतं च!

इतः परं अस्माकं गृहपाठानि वा वार्ताः वा संभाषणानि वा अत्र स्थापयामः । सर्वे भागं स्वीकुर्वन्तु इति प्रार्थना ।

जयतु सम्स्कृतम् !